श्री हरि शरणाष्टकम्

श्री हरि शरणाष्टकम्

॥ श्री हरि शरणाष्टकम् ॥

ध्येयं वदन्ति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै।

रूपैस्तु तैरपि विभासि यतस्त्वमेव तस्मात्त्वमेव शरणं मम दीनबन्धो॥1॥

नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा।

संदृष्यते न किल कोऽपि सहायको मे तस्मात्त्वमेव शरणं मम दीनबन्धो॥2॥

नोपासिता मदमपास्य मया महान्तस्तीर्थानि चास्तिकधिया न हि सेवितानि।

देवार्चनं च विधिवन्न कृतं कदापि तस्मात्त्वमेव शरणं मम दीनबन्धो॥3॥

दुर्वासना मम सदा परिकर्षयन्ति चित्तं शरीरमपि रोगगणा दहन्ति।

सञ्जीवनं च परहस्तगतं सदैव तस्मात्त्वमेव शरणं मम दीनबन्धो॥4॥

पूर्वं कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि ह्रदयं परिकम्पते मे।

ख्याता च ते पतितपावनता तु यस्मात् तस्मात्त्वमेव शरणं मम दीनबन्धो॥5॥

दुःखं जराजननजं विविधाश्च रोगाः काकश्वसूकरजनिर्निरय च पातः।

त्वद्विस्मॄतेः फलमिदं विततं हि लोके तस्मात्त्वमेव शरणं मम दीनबन्धो॥6॥

नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम्।

तं यच्छसीश निजलोकमिति व्रतं ते तस्मात्त्वमेव शरणं मम दीनबन्धो॥7॥

वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदम्बके वा।

सर्वत्र सर्वविधिना गदितस्त्वमेव तस्मात्त्वमेव शरणं मम दीनबन्धो॥8॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥

आज का ज्योतिषीय विचार

“कर्म और ग्रह दोनों जीवन को गढ़ते हैं।”

— पंडित जगन्नाथ