श्री दीनबन्धु अष्टकम्

श्री दीनबन्धु अष्टकम्

॥ श्री दीनबन्ध्वष्टकम् ॥

यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले।

यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥

चक्रं सहस्रकरचारु करारविन्दे गुर्वी गदा दरवरश्च विभाति यस्य।

पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥

येनोद्धृता वसुमती सलिले निमग्ना नग्ना च पाण्डववधूः स्थगिता दुकूलैः।

संमोचितो जलचरस्य मुखाद्गजेन्द्रो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥

यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिं कोपेक्षणेन दनुजा विलयं व्रजन्ति।

भीताश्चरन्ति च यतोऽर्कयमानिलाद्या। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥

गायन्ति सामकुशला यमजं मखेषु ध्यायन्ति धीरमतयो यतयो विविक्ते।

पश्यन्ति योगिपुरुषाः पुरुषं शरीरे। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥

आकाररूपगुणयोगविवर्जितोऽपि मदद भक्तानुकम्पननिमित्तगृहीतमूर्तिः।

यः सर्वगोऽपि कृतशेषशरीरशय्यो। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥

यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै राराध्यते भवदवानलदाहशान्त्यै।

सर्वापराधमविचिन्त्य ममाखिलात्मा। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥

यन्नामकीर्तनपरः श्वपचोऽपि नूनं हित्वाखिलं कलिमलं भुवनं पुनाति।

दग्ध्वा ममाघमखिलं करुणेक्षणेन। दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥8॥

दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितम्।

यः पठेत् प्रयतो नित्यं तस्य विष्णुः प्रसीदति॥9॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥

आज का ज्योतिषीय विचार

“समय से बड़ा कोई ज्योतिष नहीं।”

— रामायण