श्री सङ्कटनाशन गणेश स्तोत्रम्

श्री सङ्कटनाशन गणेश स्तोत्रम्

॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥

नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।

भक्तावासं स्मेरनित्यमाय्ः कामार्थसिद्धये॥1॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥2॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।

सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम्॥3॥

नवमं भालचन्द्रं च दशमं तु विनायकम।

एकादशं गणपतिं द्वादशं तु गजाननम॥4॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।

न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्॥6॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।

संवत्सरेण सिद्धिं च लभते नात्र संशयः॥7॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां यः समर्पयेत्।

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥8॥

॥ इति श्रीनारदपुराणे सङ्कटनाशनगणेशस्तोत्रं सम्पूर्णम् ॥

आज का ज्योतिषीय विचार

“कर्म और ग्रह दोनों जीवन को गढ़ते हैं।”

— पंडित जगन्नाथ